शब्दविषये रसेल(Russell)मत: संस्कृतायां वाचि निरूपितः

पूर्वस्मिन् मासे, मृणालकौलमहोदयः संपूर्णानन्दविश्वविद्यालयस्य ३९-तमां संस्कृतां पत्रिकां मह्यं दत्तवान् (अतीव धान्यवादः, मृणाल!) ।
पात्रिकायां भारतीयपण््डितानां संस्कृतसंवादः रसेल(Russell)महोदयस्य शब्दस्वरूपविषयमते संक्षिप्तः । संवाद: शब्दस्य सत्यत्वमिथ्यत्वयोः, संज्ञार्थे, वाक्ये, संबनधे च वर्त्तते स्म ।
शब्दस्य सत्यत्वमिथ्यत्वविषये, अर्थो यदि बहिरवतिष्ठते, तदा वस्त्वेव— इति निरूपितम् (रसेलमहोदयः कदाचित् “नाईव् रीअालिस्ट” (naive realist) इति मह्यं प्रतिभाते, साध्यार्थोपेक्षात्) ।
व्याख्यानं विशुद्धं, रुचिकारं च, न केवलं रसेलमतं निदर्शितमपि तु संस्कृतविवादेष्वनुयोजितं च –इति कारणात् । उदाहरणमिव, चैत्रो वह्णिना क्षेत्रं सिञ्चतीति, अर्थोऽवस्तु, अपितु शब्दरूपः (proposition) अवज्ञेयः । शब्दरूपार्थयोः भेदेन मिथ्यावाक्यावगतिर् सुलभा । तद्विना तु, वह्निणा सिञ्चतीतिवाक्ये योग्यताभवात् वाक्यं किमवगच्छामः ? अनवगते च, केन प्रकारेण मिथ्येति वदेमः ? एवमेव, कथं नैयायोकाः मीमांसकाश्च शब्दनित्यत्वविषये चर्चां कर्तुं शक्नुवन्ति ? यदि शब्दोऽनित्य इतिवाक्यस्यार्थो वस्त्वेव, तर्हि कथं शब्दो नित्य इतिवाक्यमवगम्यते ? रसेलमतः एका एव गतिः इति विद्वांसः मन्यन्ते ।
तत्पश्चात् रसेलमतेन वाचस्पतिमिश्रस्य, शाब्दिकानाम् (इत्युक्ते वैयाकरणानामित्यहं मन्ये) अद्वैतवेदान्तिनां च मतानां भेदो स्फुटीकृतः । रसेलमते बहिरसतः अर्थाः बुद्धावपि नावतिष्टन्ते –इति भेदः । ते तु केवलं बुद्धिविषयाः ।

तत्रभवान् किं किं मन्यते ? रसेलमतं विना किं नैयायिकानां मीमांसकानां मिथः संवादः शक्यो वा न वा ? शक्ये च, कुत्र कुत्र रसेलमतमुपयोजनीयम् ?

जैनदर्शने किम् “प्रत्यक्षम्” इति ?

प्रचीनजैनदर्शने प्रमाणे द्विविधे, प्रत्यक्षम् परोक्षं च ।
प्रत्यक्षमित्युक्ते किम् ? अन्यदर्शनेषु इन्द्रियसम्यज्ज्ञानमिति । केषुचिद् योगिप्रत्यक्षं स्वसंवेदनं मनसाप्रत्यक्षमपि प्रत्यक्षेऽङ्गीक्रियन्ते । जैनदर्शने

Do we need to waste our time proving that unicorns do not exist?

Do we need to prove that unicorns, tooth fairies, hobbits and so on do not exist? The question is not just funny, insofar as an upholder of the existence of ghosts and the like could easily claim that —strictly speaking— there is no evidence of their non-existence. In Indian epistemology, this amounts to saying that there are no bādhakas ‘invalidating cognitions’ telling us that the existence of ghosts, etc. is invalid.

Is there really a single author of the Yogasūtra and Yogabhāṣya?

The idea that the Yogasūtra (henceforth YS) and the Yogabhāṣya (henceforth YBh) are not two distinct texts has been discussed for the first way in a systematic way by Johannes Bronkhorst in 1985 (“Patañjali and the Yoga Sūtras”, Studien zur Indologie und Iranistik). Philipp Maas in his published PhD thesis (Maas 2006) examined it again and Philipp Maas in his contribution to Eli Franco’s Periodization and Historiography of Indian Philosophy (2013) dealt with it again in greater detail.

किं स्वतः परतो वा प्रामाण्यम्?

किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?

सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।

पदनित्यत्वं वेदनित्यत्वं च

किमर्थम् पदानित्यत्वं निषेद्धव्यम् ?

मीमांसकास् “शब्दो नित्य एव” इति मन्यन्ते । यथा वयं वृद्धव्यवहारे शब्दार्थसम्बन्धानधिगच्छामः, तथा भूते काले वृद्धाः अपि −इत्यनादिरेव शब्दप्रयोग इति ।

शब्दनित्यत्वविषये शबरवेदान्तदेशिकयोर् मतौ

मीमामसाशास्त्रे, सूत्रषु ६–२४ अनेकाः पूर्वपक्षाः (तेषामुत्तराणि च) कथ्यन्ते । शब्दः कर्तृक इति ते पूर्वपक्षिन मन्यन्ते । यद्येवं स्यात्, शब्दस्यार्थेन नित्यसम्बन्धो ऽप्यसम्भव एव । एतस्मात् करणात् ते पूर्वपक्षाः न मीमांसकानामुक्ताः, अपि तु नैयायिकादीनाम् ।

सूत्राणाम् १।१।६–११पर्यन्तात् शबरस्वामिनः भाष्यं स्वल्पमेव । श्रीवेदान्तदेशिकैस्तु  स्फोटनिरासः, केषांचिच्चोपनिषद्वाक्यानां व्याख्यमपीह लिखितम् ।

६-सूत्रम् “कर्मैके तत्र दर्शनात्” इति । भाष्यपठणात्पूर्वम् “शब्द कर्म एव, इति केचिद्वदन्ति, क्रियानन्तरं शब्दस्य दर्श्नात्” इति मयावगतम् । शाबरभाष्ये ऽपि शब्दो ऽनित्यः क्रियमानत्वादिति व्याख्यातम् ।

श्रीवेदान्तदेशिकानां सेश्वरमीमांसायां तु “कर्म” इति शब्दस्य वाचक्तवं, न तु शब्द एव । “तत्र दर्श्नात्” इति च “संकेते सति वाचकत्वदर्शनात्” इति ।

यथा कात्यायनवार्त्तिके अादौ “सिद्ध शब्दस्यार्थेन संबन्धः“, तथा  मीमांसासूत्रेषु १।१।१–१।१।५ अपि शब्दार्थसंबन्ध  एव नित्यः, न तु शब्द स्वयम् । नैयायिकास्तु शब्द नाद एव इति मन्वानः शब्दस्यानित्यत्वं स्वीकुर्वन्ति ।

अतः मीमांसादृष्टौ वेदान्तदेशिकमतं युक्तमेव ।  नैयायिकदृष्टौ तु शबरस्वामिनः ।

 

एतस्मिन् “ब्लोगे” संस्कृत“पोस्ट्” मासे मासे प्रथमे सोमवासरे पठितव्यानि ।

How to justify Testimony? Indian and Western views

Concerning the Epistemology of Testimony, one can first distinguish between reductionists (claiming that Testimony is just a subset of Inference) and anti-reductionists (claiming that Testimony is a distinct instrument of knowledge). In India and in the West, we have reductionists (David Hume, Elisabeth Fricker, Buddhist Pramāṇavāda, Vaiśeṣika) and anti-reductionists (Thomas Reid, Jennifer Lackey, Arindam Chakrabarti, Nyāya, Mīmāṃsā).

Interestingly, however, in the West reductionists insist on the need for testimony to be grounded on something else (e.g., on the reliability of the speaker), whereas anti-reductionists claim that  we have a “presumptive right” to accept testimony, so that it “is a source of justification in its own right” (Gelfert 2010).