खपुष्पं भवत्सिद्धान्त इत्यादिप्रयोगेषु तु भाट्टानां पुष्पे खसम्बन्धित्वारोपेण आरोपितखपुष्पपदार्थनिष्ठासत्त्वादीनां सिद्धान्ते सत्त्वेन प्रयोगः । इदं न खपुष्पम् इत्यत्र तु पुरोवर्त्तिनो ज्ञानाविषयत्वभाव एवार्थः स्यात् । इति तन्मते आरोपविषयता शब्दजन्यविकल्पवृत्तिविषयता चालीकस्याङ्गीक्रियेते , तथैव तस्य अभावात्मकधर्म्माश्रयत्वमपि । अत एव तद्रीत्या अलीकलक्षणं किं स्यात् इति चिन्तनीयम् , न हि तन्नये मनोवृत्तिविषयत्वसामान्याभावोलीके इति । कालासम्बन्धस्तु तल्लक्षणं वक्तुं शक्यते ।
वेदान्तिनां नये तुच्छस्याध्यारोपाविषयत्वात् कथञ्चिच्छब्दमहिम्ना शशशृङ्गपदेन विकल्पात्मकमनोवृत्तौ जातायामलीकत्वस्य विषयत्वमङ्गीक्रियते । तथापि विकल्पस्य ज्ञानत्वानङ्गीकारात् ज्ञानाविषयत्वमलीकस्य सम्भवति । अथापि विकल्पस्य ज्ञानाद्विविच्य प्रदर्शनाय तैः सत्त्वेन प्रतीत्यनर्हम् अलीकम् इत्युच्यते । उक्तानर्हताया अवच्छेदकञ्च किञ्चिद्वक्तव्यम् इति अत एव तन्नये तदेवावच्छेदकं तल्लक्षणं – सर्व्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वे सत्युत्पत्त्यादिशून्यत्वम् – इति सम्भवति ।
अथवा – उक्तप्रतियोगित्वे सति कालासम्बन्धित्वमेवालीकत्वं तदस्तु ।
तार्किकनये तु अलीकस्य ज्ञानसामान्याविषयत्वम् इति तन्नये न विकल्पवृत्तिरङ्गीक्रियते इति प्राप्तम् । अत एव ज्ञानाविषयत्वमेवालीकलक्षणम् । कालासम्बन्धित्वं वा ।
एतेषु सर्व्वेषु पक्षेषु इदं चिन्त्यं यत् –
तत्तन्मते तुच्छस्य यल्लक्षणं ज्ञानाविषयत्वदि तत् किं तुच्छे वर्त्तते न वा । वर्त्तते चेत् तस्यापि स्वरूपं प्राप्तं , नास्ति चेत् कथं तस्य तुच्छत्वम् ।
– इति ;
तुच्छस्यापदार्थत्वेनैव भेदप्रतियोगित्वादिभावधर्म्मानाश्रयत्वे सति पदार्थेषु तद्व्यावृत्तिः कथं सिद्ध्येत । तदसिद्धौ पदार्थानां तुच्छाभेदेनालीकत्वमापतेत् , तत्सिद्धौ च तुच्छे प्रतियोगित्वादिकमङ्गीकर्त्तव्यमापतेत् ।
– इति च ।
(My friend, Sudipta Munsi brought this post from the Bharatiya Vidvat Parisat to my notice and obtained permission from the author to cross-post it on this blog. Except for his name, the learned author, Srimallalitalalita, prefers to remain anonymous.)


An interesting review of Vincent Eltschinger’s last book, Buddhist Epistemology as Apologetics, by Peter Bisschop which has the advantage of
*Long-term readers will now know that I am biased in favour of structured criticism (and against lists of useless typos and baseless praises). Accordingly, they may disagree with me on the importance of this last point if they prefer different types of reviews.