प्रचीनजैनदर्शने प्रमाणे द्विविधे, प्रत्यक्षम् परोक्षं च ।
प्रत्यक्षमित्युक्ते किम् ? अन्यदर्शनेषु इन्द्रियसम्यज्ज्ञानमिति । केषुचिद् योगिप्रत्यक्षं स्वसंवेदनं मनसाप्रत्यक्षमपि प्रत्यक्षेऽङ्गीक्रियन्ते । जैनदर्शने त्विन्द्रियज्ञानम् परोक्षत्वेन मन्यते, इन्द्रियानां परम्परयैव ज्ञानं जनितमिति यतः । अवधिमनःपर्यायकेवलज्ञानानि तु प्रत्यक्षम् । अवधिज्ञानं योगिप्रत्यक्षसादृशम्, अात्मन एव तत्र प्रमातृत्वात् । अत एव तत्प्रत्यक्षम्, अानन्तर्यात् । मनःपर्यायज्ञाने मनसा ज्ञानं परपुरुषाद् गृह्यते । यथा हि —देवदत्तः नीलो घटोऽत्रास्तीति चिन्तयति । मनःपर्यायज्ञानेन यज्ञदत्तोऽपि नीलो घटो देवदत्तस्य गृहेऽस्तीति जानाति । केवलज्ञानं तु जिनस्य सर्वज्ञानम् ।
कालेन तु सिद्धसेनादयः जैनाः न्यायबौद्धादिप्रमाणविषयप्रकरणानि पठित्वा इन्द्रियज्ञानमपि प्रत्यक्षमिति मन्यन्ते । ते च विरोधो नास्तीति वदन्ति । इन्द्रियज्ञानं हि लोकतः प्रत्यक्षं परमार्थतस्तु परोक्षम् ।
तत्र श्वेतामबरो जिनभद्रः इन्द्रियज्ञानं परोक्षम् परनिमित्तत्वाद् इति मन्यते । निमित्तमिन्द्रियाणीति यावत् । तत्पश्चात्तु व्यवहारे तु तत् प्रत्यक्षमित्यधिवदति । दिगम्बरोऽकलङ्कस्तु इन्द्रियज्ञानमेवात्मनस्कृते परोक्षमिन्द्रियानां कृते तु प्रत्यक्षमन्यनिमित्ताभवात् ।
किमर्थं द्वे परस्परासंभिन्ने गुणे एकस्मिन्नेव विषये न विरुद्धे ? जैननयानैकन्तत्वात् । अनैकान्तवादे यद् यद् असर्वविद् वदति, तत् तद् एकान्तवाद एव युक्तम् । सर्वे लौकिका नयाः न सर्वतः युक्ताः ।
जैनप्रत्यक्षजिज्ञासायाम्, श्रीमत्याः अान् क्लावेल् (Anne Clavel) प्रकरणम् एतस्मिन् पुस्तके पठितव्यम् ।
Comments and discussions are welcome. Be sure you are making a point and contributing to the discussion.