किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?
सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।
तत्र, सांख्यास्तावत् प्रामाण्यस्य ज्ञाप्त्युत्पत्त्यर्थं न किञ्चिदेवाधिकमवश्यकमिति मन्यन्ते । परन्तु, सांख्याः सत्कार्यवादिनो ऽपि सन्ति । अत एव, केन प्रकारेण प्रमाणाप्रमाणौ भिद्येते ? प्रामाण्याप्रमाण्योः स्वतः सतोः, सत्कार्यवादानुसारेण च किंचिदधिकंपश्चादुत्पत्त्यसंभवे सति, प्रामाण्याप्रामाण्यौ उभौ सकृदुत्पद्याताम् !
नैयायिकास्तु प्रामाण्याप्रामाण्यौ उभौ परतः इति मन्यन्ते । सर्वस्य ज्ञानस्य कारणगुणाः अध्यवसेयाः । ईश्वरज्ञानं तु नित्यमकारणिकं च । तस्य च किं प्रामाण्यम्, अप्रामाण्यं वा ? प्रामाण्यमिति चेत्, नैयायिको ऽपि स्वतःप्रामाण्यं स्वीकरोति । अप्रामाण्यमिति चेन्न, स्ववचनविरोधात्, ईश्वरस्य सार्वज्ञत्वादनपेक्षत्वाच्च ।
बौद्धप्रमाणवादिनः प्रामाण्यम् परतः, अप्रामाण्यं स्वतः इति मन्यन्ते । अतः, सर्वं ज्ञानं स्वत एव अप्रमाणम्, व्यवहारस्यापरमार्थत्वात् । केवलं कारणगुणसद्भावे ज्ञानम् प्रमाणीभवति ।
मीमांसकास्तु− किं कारणगुणज्ञानं स्वतः प्रमाणमुत वा न ? स्वतः प्रमाणमिति चेत्, किमर्थम् तदेव स्वतः प्रमाणम्, प्रथमं ज्ञानं तु परतः ? अप्रमाणमिति चेत्, तद्विषये ऽपि “किं कारणस्य गुणाः सम्भवन्ति ?” इत्यध्यवसेयम् । तत्कारणगुणसद्भावज्ञानस्यापि स्वतः न प्रामाण्यात्, तद्विषये ऽपि कारणगुणाः अध्यवसेयाः − इत्यनवस्था ।
तत्रभवन्तः कं पक्षं स्वीकुर्वन्ति ?
प्रमाणं स्वतः परतो वेति विचारात् प्रागिदमेवावधेयं यत् – प्रमाणप्रमेयव्यवहारो द्वैतस्थितिमाश्रित्यैव भवति। वेदान्तशास्त्रं तु जीवब्रह्मैक्यविज्ञानपरम्। तत्र यत्तत्त्वं तद् यावद्भेदरहितम् अद्वैतमेव। तस्मिन् खलु द्वैतस्य लेशाभासोऽपि न कल्पनीयः। किन्तु अज्ञानमोचनार्थं हि वेदान्तशास्त्रे स्वीक्रियते प्रमानव्यवस्था। तथाहि यावन्नोदेति ब्रह्मात्मैक्यज्ञानं तावदेव तस्य प्रयोजनम्। उदिते सति तु ब्रह्मविज्ञाने कुतो वा दृश्यते प्रमाणप्रमेयप्रमातृरूपा भेदबुद्धिः? वेदान्तेतरेषु दर्शनप्रस्थानेषु प्रमाणानां सर्वदैव प्रयोजनं प्रामाण्यं वाऽनुभूयते, किन्तु वेदान्ते ब्रह्मविज्ञानात् प्राक् केवलम् अविद्यानिवृत्तये तेषां प्रयोजनम्। एवञ्चेतरेषु दर्शनेषु स्वीकृतं तत्त्वं स्वतःप्रमाणं परतःप्रमाणं वेति, परन्तु वेदान्तराद्धान्ते तत्त्वरूपेण यद्ब्रह्म स्वीक्रितं तन्न स्वरूपतः स्वतःप्रमाणं नापि परतःप्रमाणं, अपितु स्वप्रकाशमेव, तस्य खल्वप्रमेयत्वाद्, अवाङ्मनसगोचरत्वात्, लक्ष्यलक्षणभेदरहितत्वाच्च। आतशच दर्शनेतरेषु यत्तत्त्वं तत् पराग्रूपेण प्रमाणैर्ज्ञायते, किन्तु वेदान्ततन्त्रे ब्रह्मैकरूपं यत्तत्त्वं तत् प्रत्यगभिन्नतयाऽनुभूयते।
सुदीप्तमहोदय, वेदान्तदर्शनस्थानव्याख्यानस्य कृते, धान्यवादः !