किं वेदाः सकर्तृकाः उत न ? न, कर्त्रस्मरणात् –इत्युक्तं सेश्वरमीमांसायां वेदान्तदेशिकैः ।
“वेदाः सकर्तृकाः वाक्यत्वात्, लौकिकवाक्यवत् । वेदकर्ता न स्मृतोऽनुपयोगाद् यथा जीर्णकूपस्य, जीर्णारामस्य वा कर्ता” –इति चेत्, न । जीर्णकूपोपयोगार्थं कर्ता नोपयुज्यते, सर्वस्य ग्रन्थस्य प्रामाण्यं त्वाप्तवक्त्रधीनमिति त्वया एवोक्तम् ! अाप्तवचनत्वस्य कर्त्रधिनत्वात्, वेदानां कर्त्रस्मरणाच्च, वेदा वै अकर्तृकाः ।
“किन्तु महर्षयः अपि प्रतिमन्वन्तरं श्रुतिरन्या विधीयत इति वदन्तीति” चेन्न । महर्षिभिः पुनः पुनर्वेदनित्यत्वमनूदितम् ।
एतत्सर्वं वेदान्तदेशिकैः पूर्वमीमांसानुसारेणोक्तम् । परन्तु ते न केवलं पूर्वमीमांसकाः, अपि तु वैष्णवा ईश्वरवादिनश्च । एतस्मात्, ‘प्रतिमन्वन्तरं श्रुतिरन्या विधीयते’ इतिग्रन्थविषयेऽपि वदन्ति, यत् —प्रतिमन्वन्तरं वेदाः यथापूर्वं पुनरुच्चरिताः इति संभवति । कस्मात् ? कालादिभेदेन धर्माश्च भिद्यन्ते –इति ।
एवम्, वेदान्तदेशिकाः पूर्वमीमांसाशास्त्रस्यानादित्ववादे कृतादियुगवादमपि निवेशयति । वेदाकर्तृकत्वे सत्यपि वेदानां पुनरभिव्यक्तिश्च न निरस्ता ।।
वेदान्तदेशिके इह पठितव्यम् । वेदनित्यत्वविषये तु, इह ।
(एतस्मिन् “ब्लोगे” संस्कृत“पोस्ट्” मासे मासे अन्तिमे सोमवासरे पठितव्यानि –इतीह व्याख्यातम् ।)
ममापि एतस्मिन् कौतुकम् । अत्र हि वेदैः संकृतभाषा तुल्या । संस्कृतभाषा देशकालादिभेदाभावान्नित्यैव देवभाषा इति बहुजनेन अङ्गीकृतम् । एवं तु सति मानुष्यलोके कथं सा प्रयुज्यते? । उच्यते—प्रतिमन्वन्तरं महर्षिभिः तपःप्रतापेन दैवज्ञानसंस्कृतमनोभिः संस्कृतमन्वाख्यातम् ।
सत्यम्, शब्दमात्रं वेदाख्यं भवतीति सेश्वरमीमांसायामप्युक्तम् । परन्तु पूर्वमीमांसकानां मते शब्दो न कदाचित्पुनरविर्भवति, सः, प्रत्युत, अनादिरेव । पुनःसृष्टिसद्भावप्रमाणाभवात् ।