मीमामसाशास्त्रे, सूत्रषु ६–२४ अनेकाः पूर्वपक्षाः (तेषामुत्तराणि च) कथ्यन्ते । शब्दः कर्तृक इति ते पूर्वपक्षिन मन्यन्ते । यद्येवं स्यात्, शब्दस्यार्थेन नित्यसम्बन्धो ऽप्यसम्भव एव । एतस्मात् करणात् ते पूर्वपक्षाः न मीमांसकानामुक्ताः, अपि तु नैयायिकादीनाम् ।
सूत्राणाम् १।१।६–११पर्यन्तात् शबरस्वामिनः भाष्यं स्वल्पमेव । श्रीवेदान्तदेशिकैस्तु स्फोटनिरासः, केषांचिच्चोपनिषद्वाक्यानां व्याख्यमपीह लिखितम् ।
६-सूत्रम् “कर्मैके तत्र दर्शनात्” इति । भाष्यपठणात्पूर्वम् “शब्द कर्म एव, इति केचिद्वदन्ति, क्रियानन्तरं शब्दस्य दर्श्नात्” इति मयावगतम् । शाबरभाष्ये ऽपि शब्दो ऽनित्यः क्रियमानत्वादिति व्याख्यातम् ।
श्रीवेदान्तदेशिकानां सेश्वरमीमांसायां तु “कर्म” इति शब्दस्य वाचक्तवं, न तु शब्द एव । “तत्र दर्श्नात्” इति च “संकेते सति वाचकत्वदर्शनात्” इति ।
यथा कात्यायनवार्त्तिके अादौ “सिद्ध शब्दस्यार्थेन संबन्धः“, तथा मीमांसासूत्रेषु १।१।१–१।१।५ अपि शब्दार्थसंबन्ध एव नित्यः, न तु शब्द स्वयम् । नैयायिकास्तु शब्द नाद एव इति मन्वानः शब्दस्यानित्यत्वं स्वीकुर्वन्ति ।
अतः मीमांसादृष्टौ वेदान्तदेशिकमतं युक्तमेव । नैयायिकदृष्टौ तु शबरस्वामिनः ।
एतस्मिन् “ब्लोगे” संस्कृत“पोस्ट्” मासे मासे प्रथमे सोमवासरे पठितव्यानि ।
Comments and discussions are welcome. Be sure you are making a point and contributing to the discussion.