पदनित्यत्वं वेदनित्यत्वं च

किमर्थम् पदानित्यत्वं निषेद्धव्यम् ?

मीमांसकास् “शब्दो नित्य एव” इति मन्यन्ते । यथा वयं वृद्धव्यवहारे शब्दार्थसम्बन्धानधिगच्छामः, तथा भूते काले वृद्धाः अपि −इत्यनादिरेव शब्दप्रयोग इति ।

शब्दनित्यत्वविषये शबरवेदान्तदेशिकयोर् मतौ

मीमामसाशास्त्रे, सूत्रषु ६–२४ अनेकाः पूर्वपक्षाः (तेषामुत्तराणि च) कथ्यन्ते । शब्दः कर्तृक इति ते पूर्वपक्षिन मन्यन्ते । यद्येवं स्यात्, शब्दस्यार्थेन नित्यसम्बन्धो ऽप्यसम्भव एव । एतस्मात् करणात् ते पूर्वपक्षाः न मीमांसकानामुक्ताः, अपि तु नैयायिकादीनाम् ।

सूत्राणाम् १।१।६–११पर्यन्तात् शबरस्वामिनः भाष्यं स्वल्पमेव । श्रीवेदान्तदेशिकैस्तु  स्फोटनिरासः, केषांचिच्चोपनिषद्वाक्यानां व्याख्यमपीह लिखितम् ।

६-सूत्रम् “कर्मैके तत्र दर्शनात्” इति । भाष्यपठणात्पूर्वम् “शब्द कर्म एव, इति केचिद्वदन्ति, क्रियानन्तरं शब्दस्य दर्श्नात्” इति मयावगतम् । शाबरभाष्ये ऽपि शब्दो ऽनित्यः क्रियमानत्वादिति व्याख्यातम् ।

श्रीवेदान्तदेशिकानां सेश्वरमीमांसायां तु “कर्म” इति शब्दस्य वाचक्तवं, न तु शब्द एव । “तत्र दर्श्नात्” इति च “संकेते सति वाचकत्वदर्शनात्” इति ।

यथा कात्यायनवार्त्तिके अादौ “सिद्ध शब्दस्यार्थेन संबन्धः“, तथा  मीमांसासूत्रेषु १।१।१–१।१।५ अपि शब्दार्थसंबन्ध  एव नित्यः, न तु शब्द स्वयम् । नैयायिकास्तु शब्द नाद एव इति मन्वानः शब्दस्यानित्यत्वं स्वीकुर्वन्ति ।

अतः मीमांसादृष्टौ वेदान्तदेशिकमतं युक्तमेव ।  नैयायिकदृष्टौ तु शबरस्वामिनः ।

 

एतस्मिन् “ब्लोगे” संस्कृत“पोस्ट्” मासे मासे प्रथमे सोमवासरे पठितव्यानि ।