पूर्वस्मिन् मासे, मृणालकौलमहोदयः संपूर्णानन्दविश्वविद्यालयस्य ३९-तमां संस्कृतां पत्रिकां मह्यं दत्तवान् (अतीव धान्यवादः, मृणाल!) ।
पात्रिकायां भारतीयपण््डितानां संस्कृतसंवादः रसेल(Russell)महोदयस्य शब्दस्वरूपविषयमते संक्षिप्तः । संवाद: शब्दस्य सत्यत्वमिथ्यत्वयोः, संज्ञार्थे, वाक्ये, संबनधे च वर्त्तते स्म ।
शब्दस्य सत्यत्वमिथ्यत्वविषये, अर्थो यदि बहिरवतिष्ठते, तदा वस्त्वेव— इति निरूपितम् (रसेलमहोदयः कदाचित् “नाईव् रीअालिस्ट” (naive realist) इति मह्यं प्रतिभाते, साध्यार्थोपेक्षात्) ।
व्याख्यानं विशुद्धं, रुचिकारं च, न केवलं रसेलमतं निदर्शितमपि तु संस्कृतविवादेष्वनुयोजितं च –इति कारणात् । उदाहरणमिव, चैत्रो वह्णिना क्षेत्रं सिञ्चतीति, अर्थोऽवस्तु, अपितु शब्दरूपः (proposition) अवज्ञेयः । शब्दरूपार्थयोः भेदेन मिथ्यावाक्यावगतिर् सुलभा । तद्विना तु, वह्निणा सिञ्चतीतिवाक्ये योग्यताभवात् वाक्यं किमवगच्छामः ? अनवगते च, केन प्रकारेण मिथ्येति वदेमः ? एवमेव, कथं नैयायोकाः मीमांसकाश्च शब्दनित्यत्वविषये चर्चां कर्तुं शक्नुवन्ति ? यदि शब्दोऽनित्य इतिवाक्यस्यार्थो वस्त्वेव, तर्हि कथं शब्दो नित्य इतिवाक्यमवगम्यते ? रसेलमतः एका एव गतिः इति विद्वांसः मन्यन्ते ।
तत्पश्चात् रसेलमतेन वाचस्पतिमिश्रस्य, शाब्दिकानाम् (इत्युक्ते वैयाकरणानामित्यहं मन्ये) अद्वैतवेदान्तिनां च मतानां भेदो स्फुटीकृतः । रसेलमते बहिरसतः अर्थाः बुद्धावपि नावतिष्टन्ते –इति भेदः । ते तु केवलं बुद्धिविषयाः ।
तत्रभवान् किं किं मन्यते ? रसेलमतं विना किं नैयायिकानां मीमांसकानां मिथः संवादः शक्यो वा न वा ? शक्ये च, कुत्र कुत्र रसेलमतमुपयोजनीयम् ?
Comments and discussions are welcome. Be sure you are making a point and contributing to the discussion.