किमर्थम् पदानित्यत्वं निषेद्धव्यम् ?
मीमांसकास् “शब्दो नित्य एव” इति मन्यन्ते । यथा वयं वृद्धव्यवहारे शब्दार्थसम्बन्धानधिगच्छामः, तथा भूते काले वृद्धाः अपि −इत्यनादिरेव शब्दप्रयोग इति ।
नैयाियकास्पुनः “शब्दो ऽनित्यः” इति मन्यन्ते । यथा शब्दस्य ध्वनिरनित्यं कार्यम्, तथा शब्दो ऽप्यनित्यः । शब्द-शब्दार्थसम्बन्धस्तु साङ्केतिकः, पुरुषापेक्षश्च । “परन्तु सर्वत्र एक एव शब्दः एकस्मिन्नेवार्थे प्रयुक्ते, एतच्च सङ्केतकर्तृबहुत्वे नोपपद्यते” इति चेन्न, ईश्वरसङ्केतकर्तृत्वात् । एक एव ईश्वर सकृत् सर्वेषां कृते सङ्केतं स्थापितवान् इति ।
ईश्वरासिद्धत्वात्, कल्पनागौरवाच्च मीमांसका नानुमन्यन्ते । यथाद्यतने बालकाः, तथा भूताः अपि, भेदस्य प्रमाणाभवात् ।
वेदान्तदेशिकास्तु मीमांसां न्यायं च पठितवान् । शब्दनित्यत्वमेव वेदान्तदेशिकानां मते न महत्वपूर्णम् । वर्णक्रमेण, वृद्धव्यवहारेण च शब्दप्रयोगः साध्यते; पदनित्यत्वानित्यत्वगोचरे वादो वृथा इति यावत् (इति सेश्वरमीमांसायां, १।१।२३ सूत्रस्य भाश्ये) । परन्तु, पदानित्यत्वे, वेदा अप्यनित्याः इति प्रसज्यते । एतत्त्वनिष्टमेव ।
एतस्मादेव करणात् शब्दानित्यत्वं निषेद्धव्यमिति ।
वेदान्तदेशिके इह पठितव्यम् ।
(एतस्मिन् “ब्लोगे” संस्कृत“पोस्ट्” मासे मासे अन्तिमे सोमवासरे पठितव्यानि ।)
Comments and discussions are welcome. Be sure you are making a point and contributing to the discussion.