elisa freschiखपुष्प तुच्छत्वम् पूर्वोत्तरमीमांसादर्शनयोर् न्यायदर्शने च – elisa freschi

खपुष्प तुच्छत्वम् पूर्वोत्तरमीमांसादर्शनयोर् न्यायदर्शने च
खपुष्पं भवत्सिद्धान्त इत्यादिप्रयोगेषु तु भाट्टानां पुष्पे खसम्बन्धित्वारोपेण आरोपितखपुष्पपदार्थनिष्ठासत्त्वादीनां सिद्धान्ते सत्त्वेन प्रयोगः । इदं न खपुष्पम् इत्यत्र तु पुरोवर्त्तिनो ज्ञानाविषयत्वभाव एवार्थः स्यात् । इति तन्मते आरोपविषयता शब्दजन्यविकल्पवृत्तिविषयता चालीकस्याङ्गीक्रियेते  , तथैव तस्य अभावात्मकधर्म्माश्रयत्वमपि । अत एव तद्रीत्या अलीकलक्षणं किं स्यात् इति चिन्तनीयम् , न हि तन्नये मनोवृत्तिविषयत्वसामान्याभावोलीके इति । कालासम्बन्धस्तु तल्लक्षणं वक्तुं शक्यते ।

वेदान्तिनां नये तुच्छस्याध्यारोपाविषयत्वात् कथञ्चिच्छब्दमहिम्ना शशशृङ्गपदेन विकल्पात्मकमनोवृत्तौ जातायामलीकत्वस्य विषयत्वमङ्गीक्रियते । तथापि विकल्पस्य ज्ञानत्वानङ्गीकारात् ज्ञानाविषयत्वमलीकस्य सम्भवति । अथापि विकल्पस्य ज्ञानाद्विविच्य प्रदर्शनाय तैः सत्त्वेन प्रतीत्यनर्हम् अलीकम् इत्युच्यते । उक्तानर्हताया अवच्छेदकञ्च किञ्चिद्वक्तव्यम् इति अत एव तन्नये तदेवावच्छेदकं तल्लक्षणं – सर्व्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वे सत्युत्पत्त्यादिशून्यत्वम् – इति सम्भवति ।

अथवा – उक्तप्रतियोगित्वे सति कालासम्बन्धित्वमेवालीकत्वं तदस्तु ।

तार्किकनये तु अलीकस्य ज्ञानसामान्याविषयत्वम् इति तन्नये न विकल्पवृत्तिरङ्गीक्रियते इति प्राप्तम् । अत एव ज्ञानाविषयत्वमेवालीकलक्षणम् । कालासम्बन्धित्वं वा ।

एतेषु सर्व्वेषु पक्षेषु इदं चिन्त्यं यत् –

तत्तन्मते तुच्छस्य यल्लक्षणं ज्ञानाविषयत्वदि तत् किं तुच्छे वर्त्तते न वा । वर्त्तते चेत् तस्यापि स्वरूपं प्राप्तं , नास्ति चेत् कथं तस्य तुच्छत्वम् ।

– इति ;

तुच्छस्यापदार्थत्वेनैव भेदप्रतियोगित्वादिभावधर्म्मानाश्रयत्वे सति पदार्थेषु तद्व्यावृत्तिः कथं सिद्ध्येत । तदसिद्धौ पदार्थानां तुच्छाभेदेनालीकत्वमापतेत् , तत्सिद्धौ च तुच्छे प्रतियोगित्वादिकमङ्गीकर्त्तव्यमापतेत् ।

– इति च ।

(My friend, Sudipta Munsi brought this post from the Bharatiya Vidvat Parisat to my notice and obtained permission from the author to cross-post it on this blog. Except for his name, the learned author, Srimallalitalalita, prefers to remain anonymous.)