elisa freschiमीमांसान्याययोः शब्दविषये विवादः -१- – elisa freschi

मीमांसान्याययोः शब्दविषये विवादः -१-
पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६–१।१।११) प्रतिवदिताश्च ।

१।१।६ विषयं प्रतिजानाति “कर्म एके तत्र दर्शनात्” इति । एके − नैयायिकाः मन्यन्ते, शब्दः कर्मैवास्ति, प्रयत्नानन्तरदर्शनाद् इति यावत् ।

१।१।७ सूत्रे द्वितीयो हेतुरुक्तः “अस्थानात्” इति । शब्दः कर्म, यतः शीघ्रं विनश्यति, विनष्टश्च न कुत्रचिदुपलभ्यते । सन्ति तु अर्थाः, ये सन्तोऽपि नोपलभ्यन्ते, मेरुवत् इति चेन्न । मेर्वादयः व्यवधानेभ्य एव नोपलभ्यन्ते । व्यवधानं विना सर्वमुपलभ्यमिति नैयायिकः ।

१।१।८ सूत्रेऽपि हेतुरुच्यते “करोतिशब्दात्” इति । लोके “सः शब्दं करोति” इति यावत् । किमर्थं लोकव्यवहारं प्रमाणमिति चेत्, उच्यते − यथा लोके वदन्ति तथा चिन्तयन्ति, न चानुपलब्धं किंचिद्वर्तते इति सूत्रे १।१।७ उक्तम् । तस्माद् यदुपलब्धं तच्चिन्तितं, यच्चिन्तितं च तल्लोकव्यवहारे व्यक्तमिति लोकव्यवहारः प्रमाणमिति नैयायिकः । तत्र तु −संस्कृता वागपि संकेतिका इति नैयायिकाः । अत एव संभवति यत् केवलं संस्कृतायां भाषायां “शब्दं करोति” इति व्यवहारोऽस्ति । वस्तुतश्च हङ्गरीभाषायां “शब्दं प्रमुञ्चति” इत्युच्यते, न तु “करोति” ।

१।१।९ सूत्रे यौगपद्यं हेतुत्वेनोक्तम् “सत्त्वान्तरे च यौगपद्यात्” इति । नानादेशेषु “शब्द”शब्दादयः यौगपद्येन श्रुताः । यद्येक एव शब्दो भवेत्, तर्हि एतदसम्भवम् । यथाहि ममैकः पुत्रः केवलं पाटलिपुत्रे दृश्यते, न तु यौगपद्येन पाटलिपुत्रे वारणसीपूरे च ।

किम् मन्यन्ते तत्रभवन्तः, कः कः हेतुः युक्ततमः?

शब्दस्वरूप एतत् “पोस्ट्” अपि पठितव्यम्