elisa freschiकिं स्वतः परतो वा प्रामाण्यम्? – elisa freschi

किं स्वतः परतो वा प्रामाण्यम्?
किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?

सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।

तत्र, सांख्यास्तावत् प्रामाण्यस्य ज्ञाप्त्युत्पत्त्यर्थं न किञ्चिदेवाधिकमवश्यकमिति मन्यन्ते । परन्तु, सांख्याः सत्कार्यवादिनो ऽपि सन्ति । अत एव, केन प्रकारेण प्रमाणाप्रमाणौ भिद्येते ? प्रामाण्याप्रमाण्योः स्वतः सतोः, सत्कार्यवादानुसारेण च किंचिदधिकंपश्चादुत्पत्त्यसंभवे सति, प्रामाण्याप्रामाण्यौ उभौ सकृदुत्पद्याताम् !

नैयायिकास्तु प्रामाण्याप्रामाण्यौ उभौ परतः इति मन्यन्ते । सर्वस्य ज्ञानस्य कारणगुणाः अध्यवसेयाः । ईश्वरज्ञानं तु नित्यमकारणिकं च । तस्य च किं प्रामाण्यम्, अप्रामाण्यं वा ? प्रामाण्यमिति चेत्, नैयायिको ऽपि स्वतःप्रामाण्यं स्वीकरोति । अप्रामाण्यमिति चेन्न, स्ववचनविरोधात्, ईश्वरस्य सार्वज्ञत्वादनपेक्षत्वाच्च ।

बौद्धप्रमाणवादिनः प्रामाण्यम् परतः, अप्रामाण्यं स्वतः इति मन्यन्ते । अतः, सर्वं ज्ञानं स्वत एव अप्रमाणम्, व्यवहारस्यापरमार्थत्वात् । केवलं कारणगुणसद्भावे ज्ञानम् प्रमाणीभवति ।

मीमांसकास्तु− किं कारणगुणज्ञानं स्वतः प्रमाणमुत वा न ? स्वतः प्रमाणमिति चेत्, किमर्थम् तदेव स्वतः प्रमाणम्, प्रथमं ज्ञानं तु परतः ? अप्रमाणमिति चेत्, तद्विषये ऽपि “किं कारणस्य गुणाः सम्भवन्ति ?” इत्यध्यवसेयम् । तत्कारणगुणसद्भावज्ञानस्यापि स्वतः न प्रामाण्यात्, तद्विषये ऽपि कारणगुणाः अध्यवसेयाः − इत्यनवस्था ।

तत्रभवन्तः कं पक्षं स्वीकुर्वन्ति ?