What would you understand out of the following Sanskrit sentences?

2nd UPDATE

I am trying to figure out how to best translate one of my projects into Sanskrit. What would you understand if I were to tell you any of the following?

१ तर्कयुक्तयो वेदमीमांसायां तद्विनियोगश्च ।
२ कार्यविषयान्विक्षिकी वेदमीमांसायां तद्विनियोगश्च ।
३ कार्यविषययुक्तिर्वेदमीमांसायां तद्विनियोगश्च ।

NEW SUGGESTIONS:

४ कार्यविषयकर्ममीमांसोपकारकाः न्यायाः वेदनिर्णयार्थं तद्विनियोगश्च । (adapted from a suggestion by Sudipta Munsi)

५ कार्यार्थविषये युक्तिन्यायाः वेदमीमांसायां तद्विनियोगश्च ।
६ कर्त्तव्यविषयान्विक्षिकी वेदमीमांसायां तद्विनियोगश्च । (adapted from a suggestion by Robert Zydenbos)
३ कर्त्तव्यविषययुक्तिर्वेदमीमांसायां च तद्विनियोग: । (adapted from a suggestion by Robert Zydenbos)

Many thanks for your help!

 

 

 

खपुष्प तुच्छत्वम् पूर्वोत्तरमीमांसादर्शनयोर् न्यायदर्शने च

खपुष्पं भवत्सिद्धान्त इत्यादिप्रयोगेषु तु भाट्टानां पुष्पे खसम्बन्धित्वारोपेण आरोपितखपुष्पपदार्थनिष्ठासत्त्वादीनां सिद्धान्ते सत्त्वेन प्रयोगः । इदं न खपुष्पम् इत्यत्र तु पुरोवर्त्तिनो ज्ञानाविषयत्वभाव एवार्थः स्यात् । इति तन्मते आरोपविषयता शब्दजन्यविकल्पवृत्तिविषयता चालीकस्याङ्गीक्रियेते , तथैव तस्य अभावात्मकधर्म्माश्रयत्वमपि । अत एव तद्रीत्या अलीकलक्षणं किं स्यात् इति चिन्तनीयम् , न हि तन्नये मनोवृत्तिविषयत्वसामान्याभावोलीके इति । कालासम्बन्धस्तु तल्लक्षणं वक्तुं शक्यते ।

वेदान्तिनां नये तुच्छस्याध्यारोपाविषयत्वात् कथञ्चिच्छब्दमहिम्ना शशशृङ्गपदेन विकल्पात्मकमनोवृत्तौ जातायामलीकत्वस्य विषयत्वमङ्गीक्रियते । तथापि विकल्पस्य ज्ञानत्वानङ्गीकारात् ज्ञानाविषयत्वमलीकस्य सम्भवति । अथापि विकल्पस्य ज्ञानाद्विविच्य प्रदर्शनाय तैः सत्त्वेन प्रतीत्यनर्हम् अलीकम् इत्युच्यते । उक्तानर्हताया अवच्छेदकञ्च किञ्चिद्वक्तव्यम् इति अत एव तन्नये तदेवावच्छेदकं तल्लक्षणं – सर्व्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वे सत्युत्पत्त्यादिशून्यत्वम् – इति सम्भवति ।
अथवा – उक्तप्रतियोगित्वे सति कालासम्बन्धित्वमेवालीकत्वं तदस्तु ।

तार्किकनये तु अलीकस्य ज्ञानसामान्याविषयत्वम् इति तन्नये न विकल्पवृत्तिरङ्गीक्रियते इति प्राप्तम् । अत एव ज्ञानाविषयत्वमेवालीकलक्षणम् । कालासम्बन्धित्वं वा ।

एतेषु सर्व्वेषु पक्षेषु इदं चिन्त्यं यत् –
तत्तन्मते तुच्छस्य यल्लक्षणं ज्ञानाविषयत्वदि तत् किं तुच्छे वर्त्तते न वा । वर्त्तते चेत् तस्यापि स्वरूपं प्राप्तं , नास्ति चेत् कथं तस्य तुच्छत्वम् ।
– इति ;
तुच्छस्यापदार्थत्वेनैव भेदप्रतियोगित्वादिभावधर्म्मानाश्रयत्वे सति पदार्थेषु तद्व्यावृत्तिः कथं सिद्ध्येत । तदसिद्धौ पदार्थानां तुच्छाभेदेनालीकत्वमापतेत् , तत्सिद्धौ च तुच्छे प्रतियोगित्वादिकमङ्गीकर्त्तव्यमापतेत् ।

– इति च ।

(My friend, Sudipta Munsi brought this post from the Bharatiya Vidvat Parisat to my notice and obtained permission from the author to cross-post it on this blog. Except for his name, the learned author, Srimallalitalalita, prefers to remain anonymous.)

Daya Krishna’s “Creative Encounters with Texts”

Daya Krishna was an Indian philosopher, a rationalist and iconoclast, who constantly tried to question and scrutinise acquired “truths”. The main place for such investigations was for him a saṃvāda ‘dialogue’. That’s why he also strived to organise structured saṃvāda inviting scholars from different traditions to debate about a specific problem. The minutes of such dialogues have been published in Saṃvāda and Bhakti.

मीमांसान्याययोः शब्दविषये विवादः -१-

पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६–१।१।११) प्रतिवदिताश्च ।
१।१।६ विषयं प्रतिजानाति “कर्म एके तत्र दर्शनात्” इति । एके − नैयायिकाः मन्यन्ते, शब्दः कर्मैवास्ति, प्रयत्नानन्तरदर्शनाद् इति यावत् ।
१।१।७ सूत्रे द्वितीयो हेतुरुक्तः “अस्थानात्” इति । शब्दः कर्म, यतः शीघ्रं विनश्यति, विनष्टश्च न कुत्रचिदुपलभ्यते । सन्ति तु अर्थाः, ये सन्तोऽपि नोपलभ्यन्ते, मेरुवत् इति चेन्न । मेर्वादयः व्यवधानेभ्य एव नोपलभ्यन्ते । व्यवधानं विना सर्वमुपलभ्यमिति नैयायिकः ।
१।१।८ सूत्रेऽपि हेतुरुच्यते “करोतिशब्दात्” इति । लोके “सः शब्दं करोति” इति यावत् । किमर्थं लोकव्यवहारं प्रमाणमिति चेत्, उच्यते − यथा लोके वदन्ति तथा चिन्तयन्ति, न चानुपलब्धं किंचिद्वर्तते इति सूत्रे १।१।७ उक्तम् । तस्माद् यदुपलब्धं तच्चिन्तितं, यच्चिन्तितं च तल्लोकव्यवहारे व्यक्तमिति लोकव्यवहारः प्रमाणमिति नैयायिकः । तत्र तु −संस्कृता वागपि संकेतिका इति नैयायिकाः । अत एव संभवति यत् केवलं संस्कृतायां भाषायां “शब्दं करोति” इति व्यवहारोऽस्ति । वस्तुतश्च हङ्गरीभाषायां “शब्दं प्रमुञ्चति” इत्युच्यते, न तु “करोति” ।
१।१।९ सूत्रे यौगपद्यं हेतुत्वेनोक्तम् “सत्त्वान्तरे च यौगपद्यात्” इति । नानादेशेषु “शब्द”शब्दादयः यौगपद्येन श्रुताः । यद्येक एव शब्दो भवेत्, तर्हि एतदसम्भवम् । यथाहि ममैकः पुत्रः केवलं पाटलिपुत्रे दृश्यते, न तु यौगपद्येन पाटलिपुत्रे वारणसीपूरे च ।

किम् मन्यन्ते तत्रभवन्तः, कः कः हेतुः युक्ततमः?

शब्दस्वरूप एतत् “पोस्ट्” अपि पठितव्यम्

Kamaleswara Bhattacharya’s death

(the author of the following post is Gianni Pellegrini)

he akhilavidyāmūrte! śubhās te pathānaḥ santu…

It was 2002, a very humid August, perhaps near 12.00 o’clock.

I was attending my class of Nyāyabodhinī, in the glorious Nyāya-Vaiśeṣika department sitting in the old (1791) Mukhyabhavana of the Sampurnanada Sanskrita University (Varanasi). In the middle of the lesson entered a tiny aged figure, with very bright eyes and shining face.

शब्दविषये रसेल(Russell)मत: संस्कृतायां वाचि निरूपितः

पूर्वस्मिन् मासे, मृणालकौलमहोदयः संपूर्णानन्दविश्वविद्यालयस्य ३९-तमां संस्कृतां पत्रिकां मह्यं दत्तवान् (अतीव धान्यवादः, मृणाल!) ।
पात्रिकायां भारतीयपण््डितानां संस्कृतसंवादः रसेल(Russell)महोदयस्य शब्दस्वरूपविषयमते संक्षिप्तः । संवाद: शब्दस्य सत्यत्वमिथ्यत्वयोः, संज्ञार्थे, वाक्ये, संबनधे च वर्त्तते स्म ।
शब्दस्य सत्यत्वमिथ्यत्वविषये, अर्थो यदि बहिरवतिष्ठते, तदा वस्त्वेव— इति निरूपितम् (रसेलमहोदयः कदाचित् “नाईव् रीअालिस्ट” (naive realist) इति मह्यं प्रतिभाते, साध्यार्थोपेक्षात्) ।
व्याख्यानं विशुद्धं, रुचिकारं च, न केवलं रसेलमतं निदर्शितमपि तु संस्कृतविवादेष्वनुयोजितं च –इति कारणात् । उदाहरणमिव, चैत्रो वह्णिना क्षेत्रं सिञ्चतीति, अर्थोऽवस्तु, अपितु शब्दरूपः (proposition) अवज्ञेयः । शब्दरूपार्थयोः भेदेन मिथ्यावाक्यावगतिर् सुलभा । तद्विना तु, वह्निणा सिञ्चतीतिवाक्ये योग्यताभवात् वाक्यं किमवगच्छामः ? अनवगते च, केन प्रकारेण मिथ्येति वदेमः ? एवमेव, कथं नैयायोकाः मीमांसकाश्च शब्दनित्यत्वविषये चर्चां कर्तुं शक्नुवन्ति ? यदि शब्दोऽनित्य इतिवाक्यस्यार्थो वस्त्वेव, तर्हि कथं शब्दो नित्य इतिवाक्यमवगम्यते ? रसेलमतः एका एव गतिः इति विद्वांसः मन्यन्ते ।
तत्पश्चात् रसेलमतेन वाचस्पतिमिश्रस्य, शाब्दिकानाम् (इत्युक्ते वैयाकरणानामित्यहं मन्ये) अद्वैतवेदान्तिनां च मतानां भेदो स्फुटीकृतः । रसेलमते बहिरसतः अर्थाः बुद्धावपि नावतिष्टन्ते –इति भेदः । ते तु केवलं बुद्धिविषयाः ।

तत्रभवान् किं किं मन्यते ? रसेलमतं विना किं नैयायिकानां मीमांसकानां मिथः संवादः शक्यो वा न वा ? शक्ये च, कुत्र कुत्र रसेलमतमुपयोजनीयम् ?

जैनदर्शने किम् “प्रत्यक्षम्” इति ?

प्रचीनजैनदर्शने प्रमाणे द्विविधे, प्रत्यक्षम् परोक्षं च ।
प्रत्यक्षमित्युक्ते किम् ? अन्यदर्शनेषु इन्द्रियसम्यज्ज्ञानमिति । केषुचिद् योगिप्रत्यक्षं स्वसंवेदनं मनसाप्रत्यक्षमपि प्रत्यक्षेऽङ्गीक्रियन्ते । जैनदर्शने

किं स्वतः परतो वा प्रामाण्यम्?

किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?

सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।

वेदा अकर्तृकाः — प्रतिमन्वन्तरं तु पुनरुच्चरिताः (!)

किं वेदाः सकर्तृकाः उत न ? न, कर्त्रस्मरणात्